वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्रं꣣ वि꣡श्वा꣢ अवीवृधन्त्समु꣣द्र꣡व्य꣢चसं꣣ गि꣡रः꣢ । र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡त्प꣢तिं꣣ प꣡ति꣢म् ॥३४३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमꣳ रथीनां वाजानाꣳ सत्पतिं पतिम् ॥३४३॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । वि꣡श्वाः꣢ । अ꣣वीवृधन् । समुद्र꣡व्य꣢चसम् । स꣣मुद्र꣢ । व्य꣣चसम् । गि꣡रः꣢꣯ । र꣣थी꣡त꣢मम् । र꣣थी꣡नाम् । वा꣡जा꣢꣯नाम् । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । प꣡ति꣢꣯म् ॥३४३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 343 | (कौथोम) 4 » 2 » 1 » 2 | (रानायाणीय) 3 » 12 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः इन्द्र की महिमा का विषय वर्णित है।

पदार्थान्वयभाषाः -

प्रथम—परमेश्वर के पक्ष में। (विश्वाः) सब (गिरः) स्तुति-वाणियाँ वा वेद-वाणियाँ (समुद्र-व्यचसम्) सागर और अन्तरिक्ष के समान व्याप्तिवाले, (रथीनाम्) रथवालों में (रथीतमम्) सबसे बढ़कर रथवाले अर्थात् पृथिवी, सूर्य, चन्द्र आदि अनेक रथसदृश गतिशील लोकों के सर्वोच्च स्वामी, (वाजानाम्) सब बलों के (पतिम्) अधीश्वर, (सत्पतिम्) सज्जनों, सद्गुणों व सदाचारों के रक्षक (इन्द्रम्) परमैश्वर्यवान् परमात्मा का (अवीवृधन्) वर्धन अर्थात् महिमागान द्वारा प्रचार-प्रसार करती हैं ॥ द्वितीय—राजा के पक्ष में। (विश्वाः) सब (गिरः) राष्ट्रवासी प्रजाजनों की वाणियाँ (समुद्रव्यचसम्) जलपोतों से सागर में और विमानों से अन्तरिक्ष में व्याप्त, (रथीनाम्) यान-स्वामियों में (रथीतमम्) भूयान, जलयान और विमानों के सबसे बड़े स्वामी, (वाजानाम्) दैहिक, मानसिक और आत्मिक बलों, अन्नों वा युद्धों के (पतिम्) अधीश्वर, (सत्पतिम्) सज्जनों वा सत्कर्मों के रक्षक (इन्द्रम्) शत्रुविदारक तथा सुखप्रद राजा को (अवीवृधन्) बढ़ायें, उत्साहित करें ॥२॥ इस मन्त्र में श्लेषालङ्कार है। ‘रथी, रथी’ में लाटानुप्रास और ‘पतिम् पतिम्’ में यमक है ॥२॥

भावार्थभाषाः -

सब वेदवाणियाँ और स्तोताओं की वाणियाँ परमेश्वर की ही महिमा का गान करती हैं। वैसे ही राष्ट्र में प्रजाओं की वाणियाँ प्रजावत्सल राजा की महिमा का गान करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरिन्द्रस्य महिम्नो विषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपक्षे। (विश्वाः) सर्वाः (गिरः) वेदवाचः स्तुतिवाचो वा (समुद्रव्यचसम्) अब्धिवद् अन्तरिक्षवद् वा व्यचाः व्याप्तिर्यस्य तम्। समुद्र इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद् वर्ष्या अभि। ऋ० १०।९८।५ इति प्रामाण्यात् अब्धिराकाशश्चोभयमपि समुद्रशब्देनोच्यते। व्यचस् इति व्यचितिर्व्याप्तिकर्मणोऽसुन् प्रत्ययान्तम्। रक्-प्रत्ययान्तः समुद्रशब्दः प्रत्ययस्वरेणान्तोदात्तः, बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (रथीनाम्) रथवताम् (रथीतमम्) रथवत्तमम् पृथिवीसूर्यचन्द्रादीनाम् अनेकेषां रंहणवतां लोकानां सर्वातिशायिनमधीश्वरम् इत्यर्थः। रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१२२ वा० इति मतुबर्थे ई प्रत्ययः। (वाजानाम्) सर्वेषां बलानाम् (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सज्जनानां सद्गुणानां सदाचाराणां वा रक्षकम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अवीवृधन्) वर्द्धयन्ति, प्रचारयन्तीत्यर्थः ॥२ अथ द्वितीयः—राजपक्षे। (विश्वाः) सर्वाः (गिरः) राष्ट्रवासिनां प्रजाजनानां वाचः (समुद्रव्यचसम्) जलपोतैः सागरे विमानैश्चान्तरिक्षे व्यचाः व्याप्तिर्यस्य तम्, (रथीनाम्) यानस्वामिनां मध्ये (रथीतमम्) अतिशयेन भूजलान्तरिक्षयानस्वामिनम्, (वाजानाम्) दैहिकमानसाऽऽत्मिकबलानाम् अन्नानां, युद्धानां वा (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां सत्पुरुषाणां सत्कर्मणां च रक्षकम् (इन्द्रम्) शत्रुविदारकं प्रजानां सुखप्रदं राजानम् (अवीवृधन्) वर्द्धयन्तु, उत्साहयन्तु। अत्र लोडर्थे लुङ् ॥२॥३ अत्र श्लेषालङ्कारः। ‘रथी-रथी’ इत्यत्र लाटानुप्रासः। ‘पतिम्-पतिम्’ इत्यत्र यमकम् ॥२॥

भावार्थभाषाः -

सर्वा वेदवाचः स्तुतिवाचश्च परमेश्वरस्यैव महिमानं गायन्ति। तथैव राष्ट्रे प्रजानां वाचः प्रजावत्सलस्य नृपतेर्महिमानं गायन्तु ॥२॥४

टिप्पणी: १. ऋ० १।११।१। य० १२।५६, १७।६१ उभयोः ऋषिः सुतजेतृमधुच्छन्दाः; १५।६१ ऋषिः मधुच्छन्दाः। साम० ८२७। २. (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। (रथीतमम्) बहवो रथा रमणाधिकरणाः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन् स रथीरीश्वरः सोऽतिशयितस्तम्। (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम् (पतिम्) यः पाति रक्षति चराचरं जगत् तमीश्वरम्। इति ऋ० १।११।१ भाष्ये द०। ३. (समुद्रव्यचसम्) समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरम्। (रथीतमम्) रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्—इति तत्रैव द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्वेदभाष्ये परमेश्वरविषये शूरविषये च, य० १२।६१ भाष्ये कुमारकुमारीणां कर्त्तव्यविषये, य० १५।६१ भाष्ये राजप्रजाविषये, य० १७।६१ भाष्ये च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान्।